ताताचार्यो यशोध्वजः
लक्ष्मीपूर्वो यतिपतिगिरौ शेषवंशावतंसो
हंसो विद्वानिव च विहरन् मानसे वैष्णवीये ।
ताताचार्योऽरमत सुधियां साधुवादैः प्रशस्तैः
गोदापाणिग्रहणफलकैरस्थनैश्चाप्तकामः ॥ १ ॥
सालप्रांशुः परिणतपदो दीर्घबाहुः प्रहस्तः
पुष्यन्नेत्रो विकसितमुखो यो विशालोरुवक्षाः ।
ईषद्रक्तः सिततरतनुर्मन्दगत्या वलन् यन्
ताताचार्यो व्यलसदसमः सुन्दरो बन्धुराङ्गः ॥ २ ॥
तर्के वेदे द्रविडयमिनां दिव्यबन्धे प्रबन्धे
शिष्टाद्वैते समसुमकृषावाङ्ग्लवाशुप्रगल्भः ।
नानाभिज्ञान् बहुमतकृतीन् शास्त्रसंशोधनिष्ठान्
ग्रामे रामे सपदि समुदितान्यो व्यधत्तोदयाय ॥ ३ ॥
सत्यस्थित्यै कठिनहृदयो योन्तरायैरवार्यो
विज्ञानार्थं परवृतकरिः शास्त्ररक्षैकदीक्षः ।
माता पाता यदुपतिगिरेः शीलसंस्कारविद्याः
नेता नेतः चिरतरधृतां तां महिम्नः स्म पूरम् ॥ ४ ॥
धीरोदारो धवलवसनो देहधावल्यधूतः
पादप्रान्तप्रसदरमितस्वच्छकच्छाधरीयः ।
फालन्यस्तस्वकुलतिलको राङ्कवारक्तकण्ठो
लक्ष्मीवाहश्चलत इव यो राजवीथ्यां सयूथः ॥ ५ ॥
गेहे सक्तो नहि भवति सः सूरिसंसत्सुसेव्यः
भार्यां पुत्रै न रमयति वा तावदौत्सुक्यभावात् ।
शास्त्रव्राते लगयति मनो यस्म रात्रिं दिवं स्वं
श्रीशप्रीतो जगति जयति प्राकृते संस्कृते वा ॥ ६ ॥
अन्तस्तुष्टो विहितकरणात् भृत्यवर्गे नितान्तम्
क्रुष्टो रुष्टः परिगतजने वञ्चनायां कृतायाम् ।
स्वे स्वे धर्मे सकलजनतां चोदयन्नेव लोकैः
प्रीतोऽप्रीतोऽभवदयमहो हार्दभावानुभाव्यः ॥ ७ ॥
ईशो देशेऽविचलपदको भक्तिनम्रो विनम्रः
शस्त्रे शास्त्रे भरणनिपुणो निर्भयो निर्विकल्पः ।
मित्रे पुत्रे समभवनतो नातिरक्तो विरक्तः
श्रीमानार्यो भजति जनतासंस्तवं शंसनान्तम् ॥ ८ ॥
ताताचार्यो महाविद्वान् मेलुकोटेयशोध्वजः ।
यः स्फुरत्यूर्ध्वमूर्ध्वं हि विद्वद्वृन्दविहायसि ॥ ९ ॥
विद्वान् ॥ उमाकान्तभट्टः
केरेकै